भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः प्रजानामीशानस्त्रिपुरमथनः पंचभिरपि । न षड्भिः सेनानीर्दशशतमुखैरप्यहिपतिः तदान्येषां केषां कथय कथमस्मिन्नवसरः ॥ 1॥ घृतक्षीरद्राक्षामधुमधुरिमा कैरपि पदैः विशिष्यानाख्येयो भवति रसनामात्र विषयः । तथा ते सौंदर्यं परमशिवदृङ्मात्रविषयः कथंकारं ब्रूमः सकलनिगमागोचरगुणे ॥ 2॥ मुखे ते तांबूलं नयनयुगले कज्जलकला ललाटे काश्मीरं विलसति गले मौक्तिकलता । स्फुरत्कांची शाटी...