अग्रे कुरूणामथ पाण्डवानां दुःशासनेनाहृतवस्त्रकेशा । कृष्णा तदाक्रोशदनन्यनाथा गोविन्द दामोदर माधवेति ॥१॥ श्री कृष्ण विष्णो मधुकैटभारे भक्तानुकम्पिन् भगवन् मुरारे । त्रायस्व मां केशव लोकनाथ गोविन्द दामोदर माधवेति ॥२॥ विक्रेतुकामाखिलगोपकन्या मुरारिपादार्पितचित्तवृत्तिः । दध्यादिकं मोहवशादवोचद् गोविन्द दामोदर माधवेति ॥३॥ उलूखले संभृततण्डुलांश्च संघट्टयन्त्यो मुसलैः प्रमुग्धाः । गायन्ति गोप्यो जनितानुरागा गोविन्द दामोदर माधवेति ॥४॥ काचित्करांभोजपुटे...