दशमोऽध्याय: ध्यानम् ॐ उत्तप्तहेमरुचिरां रविचन्द्रवन्हि नेत्रा शनुश्शरयुता- ङ्कुशपाशशूलम् । रम्यैर्भुजैश्च दधतीं शिवशक्तिरूपां कामेश्वरीं ह्रदि भजामि धृतेन्दुलेखाम् ॥ ॐ ऋषिरुवाच ॥१॥ निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसम्मितम् । हन्यमानं बलं चैव शुम्भ: क्रुद्धोऽब्रवीद्वच: ॥२॥ बलावलेपाद् दुष्टे त्वं मा दुर्गे गर्वमावह । अन्यासां बलमाश्रित्य युद्ध्यसे यातिमानिनी ॥३॥ देव्युवाच ॥४॥ एकैवाहं जगत्यत्र द्वितीया का...