एकादशोऽध्याय: ध्यानम् ॐ बालरविद्युतिमिन्दुकिरीटां तुङ्गंकुचांनयनत्रययुक्ताम् । स्मेरमुखीं वरदाङ्कुशपाशाभीतिकरां प्रभजे भुवनेशीम् ॥ ॐ ऋषिरुवाच॥१॥ देव्या हते तत्र महासुरेन्द्रे सेन्द्रा: सुरा वन्हि पुरोगमास्ताम् । कात्यायनीं तुष्टुवुरिष्टलाभाद् विकाशिवक्त्राब्जविकाशिताशा: ॥२॥ देवि प्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोऽखिलस्य । प्रसीद विश्वेश्वरी पाहि विश्वं त्वमीश्वरी देवि चराचरस्य ॥३॥ आधारभूता जगतस्त्वमेका महीस्वरूपेण यत: स्थितासि । अपां स्वरूपस्थितया त्वयैत- दाप्यायते...