Dharma Sangrah

श्री दुर्गा सप्तशती पाठ अध्याय 2

Webdunia
मंगळवार, 12 ऑक्टोबर 2021 (22:56 IST)
द्वितीयोऽध्याय:
मध्यमचरित्र
ध्यानम्
ॐ अक्षस्रक्‌परशुं गदेषुकुलिशं पद्‌मं धनुष्कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ।
शूल पाशसुदर्शने च दधतीं हस्तै: प्रसन्नाननां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥
'ॐ र्‍हिं' ऋषिरुवाच ॥१॥
देवासुरमभुद्युद्धं पूर्णमब्दशतं पुरा ।
महिषेऽसुराणामधिपे देवानां च पुरन्दरे ॥२॥
तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम् ।
जित्वा च सकलान् देवानिन्द्रोऽभून्महिषासुर: ॥३॥
तत: पराजिता देवा: पद्‌मयोनिं प्रजापतिम् ।
पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ ॥४॥
यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम् ।
त्रिदशा: कथयामासुर्देवाभिभवविस्तरम् ॥५॥
सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च ।
अन्येषां चाधिकारान् स स्वयमेवाधितिष्ठति ॥६॥
स्वर्गान्निराकृता: सर्वे तेन देवगणा भुवि ।
विचरन्ति यथा मर्त्या महिषेण दुरात्मना ॥७॥
एतद्व: कथितं सर्वममरारिविचेष्टितम् ।
शरणं व: प्रपन्ना: स्मो वधस्तस्य विचिन्त्यताम् ॥८॥
इत्थं निशम्य देवानां वचांसि मधुसूदन: ।
चकार कोपं शम्भुश्र्च भ्रुकुटीकुटिलाननौ ॥९॥
ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्तत: ।
निश्‍चक्राम महत्तेजो ब्रह्मण: शंकरस्य च ॥१०॥
अन्येषं चैव देवानां शक्रादीनां शरीरत: ।
निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत ॥११॥
अतीव तेजस: कूटं ज्वलन्तमिव पर्वतम् ।
ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् ॥१२॥
अतुलं तत्र तत्तेज: सर्वदेवशरीरजम्।
एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा ॥१३॥
यदभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम् ।
याम्येन चाभवन् केशा बाहवो विष्णुतेजसा ॥१४।
सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत् ।
वारुणेन च जङ्‍घोरू नितम्बस्तेजसा भुव: ॥१५॥
ब्रह्मणस्तेजसा पादौ तदङ्‌गुल्योऽर्कतेजसा ।
वसूनां च कराङ्‌गुल्य: कौबेरेण च नासिका ॥१६॥
तस्यास्तु दन्ता: सम्भूता: प्राजापत्येन तेजसा ।
नयनत्रितयं जज्ञे तथा पावकतेजसा ॥१७॥
भ्रुवौ च संध्ययोस्तेज: श्रवणावनिलस्य च ।
अन्येषां चैव देवानां सम्भवस्तेजसां शिवा ॥१८॥
तत: समस्तदेवानां तेजोराशिसमुद्‌भवाम् ।
तां विलोक्य मुदं प्रापुरमरा महिषार्दिता: ॥१९॥
शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक् ।
चक्रं च दत्तवान् कृष्ण: समुत्पाद्य स्वचक्रत: ॥२०॥
शङ्‌खं च वरुण: शक्तिं ददौ तस्यै हुताशन: ।
मारुतो दत्तवांश्‍चापं बाणपूर्णे तथेषुधी ॥२१॥
वज्रमिन्द्र: समुत्पाद्य कुलिशादमराधिप: ।
ददौ तस्यै सहस्राक्षो घण्टामैरावताद् गजात् ॥२२॥
कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ ।
प्रजापतिश्‍चाक्षमालां ददौ ब्रह्मा कमण्डलुम् ॥२३॥
समस्तरोमकूपेषु निजरश्मीन् दिवाकर: ।
कालश्‍च दत्तवान् खड्‌गं तस्याश्‍चर्म च निर्मलम् ॥२४॥
क्षीरोदश्‍चामलं हारमजरे च तथाम्बरे ।
चूडामणिं तथा दिव्यं कुण्डले कटकानि च ॥२५॥
अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु ।
नूपुरौ विमलौ तद्वद् ग्रैवेयकमनुत्तमम् ॥२६॥
अङ्‌गुलीयकरत्‍नानि समस्तास्वङगुलीषु च ।
विश्‍वकर्मा ददौ तस्यै परशुं चातिनिर्मलम् ॥२७॥
अस्त्राण्यनेकरूपाणि तथाभेद्यं च दंशनम् ।
अम्लानपङकजां मालां शिरस्युरसि चापराम् ॥२८॥
अददज्जलधिस्तस्यै पङ्‌कजं चातिशोभनम् ।
हिमवा‍न् वाहनं सिंहं रत्‍नानि विविधानि च ॥२९॥
ददावशून्यं सुरया पानपात्रं धनाधिप: ।
शेषश्‍च सर्वनागेशो महामणिविभूषितम् ॥३०॥
नागहारं ददौ तस्यै धत्ते य: पृथिवीमिमाम् ॥
अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा ॥३१॥
सम्मानिता ननादोच्चै: साट्टहासं मुहुर्मुहु: ।
तस्या नादेन घोरेण कृत्स्नमापूरितं नभ: ॥३२॥
अमायतातिमहता प्रतिशब्दो महानभूत् ।
चुक्षुभु: सकला लोका: समुद्राश्र्च चकम्पिरे ॥३३॥
चचाल वसुधा चेलु: सकलाश्‍च महीधरा: ।
जयेति देवाश्‍च मुदा तामूचु: सिंहवाहिनीम् ॥३४॥
तुष्टुवुर्मुनयश्‍चैनां भक्तिनम्रात्ममूर्तय: ।
दृष्ट्‌वा समस्तं संक्षुब्धं त्रैलोक्यममरारय: ॥३५॥
संनद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधा: ।
आ: किमेतदिति क्रोधादाभाष्य महिषासुर: ॥३६॥
अभ्यधावत तं शब्दमशेषैरसुरैर्वृत: ।
स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा ॥३७॥
पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम् ।
क्षोभिताशेषपातालां धनुर्ज्यानि:स्वनेन ताम् ॥३८॥
दिशो भुजसहस्त्रेण समन्ताद् व्याप्य संस्थिताम् ।
तत: प्रववृते युद्धं तया देव्या सुरद्विषाम् ॥३९ ॥
शस्त्रास्त्रैर्बहुधा मुक्‍तैरादीपितदिगन्तरम् ।
मिहिषासुरसेनानीश्‍चिक्षुराख्यो महासुर: ॥४०॥
ययुधे चामरश्‍चान्यैश्‍चतुरङ्‌गबलान्वित: ।
रथानामयुतै: षड्‌भिरुदग्राख्यो महासुर: ॥४१॥
अयुध्यतायुतानां च सहस्त्रेण महाहनु: ।
पंचाशद्‌भिश्‍च नियुतैरसिलोमा महासुर: ॥४२॥
अयुतानां शतै; षड्‌भिर्बाष्कलो युयुधे रणे ।
गजवाजिसहस्रौघैरनेकै: परिवारित: ॥४३॥
वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत ।
बिडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतै: ॥४४॥
युयुधे संयुगे तत्र रथानां परिवारित: ।
अन्ये च तत्रायुतशो रथनाहगयैर्वृता: ॥४५॥
युयुधु: संयुगे देव्या सह तत्र महासुरा:
कोटिकोटिसहस्त्रैस्तु रथानां दन्तिनां तथा ॥४६॥
हयानां च वृतो युद्धे तत्राभून्महिषासुर: ।
तोमरैर्भिन्दिपालैश्‍च शक्तिभिर्मुसलैस्तथा ॥४७॥
युयुधु: संयुगे देव्या खड्‌गै: परशुपट्टिशै: ।
केचिच्च चिक्षिपु: शक्ती: केचित्पाशांस्तथापरे ॥४८॥
देवीं खड्‍गप्हारैस्तु ते तां हन्तुं प्रचक्रमु: ।
सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका ॥४९॥
लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी ।
अनायस्तानना देवी स्तूयमाना सुरर्षिभि: ॥५०॥
मुमोचासुरदेहेषु शस्त्राण्यस्त्राणी चेश्‍वरी ।
सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेशरी ॥५१॥
चचारासुरसैन्येषु वनेष्विव हुताशन: ।
नि:श्‍वासान् मुमुचे यांश्र्च युध्यमाना रणेऽम्बिका ॥५२॥
त एव सद्य: सम्भूता गणा: शतसहस्रश: ।
युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशै: ॥५३॥
नाशयन्तोऽसुरगणान् देवीशक्‍त्युपबृंहिता: ।
अवादयन्त पटहान् गणा: शङ्‌खांस्तथापरे ॥५४॥
मृदङ्‌गांश्‍च तथैवान्ये तस्मिन् युद्धमहोत्सवे ।
ततो देवी त्रिशूलेन गदया शक्‍तिवृष्टिभि: ॥५५॥
खड्‌गादिभिश्‍च शतशो निजघान महासुरान् ।
पातयामास चैवान्यान् घण्टास्वनविमोहितान् ॥५६॥
असुरान् भुवि पाशेन बद्‌ध्वा चान्यानकर्षयत् ।
केचिद् द्विधा कृतास्तीक्ष्णै: खड्‌गपातैस्तथापरे ॥५७॥
विपोथिता निपातेन गदया भुवि शेरते ।
वेमुश्‍च केचिद्रुधिरं मुसलेन भृशं हता: ॥५८॥
केचिन्निपतिता भूमौ भिन्ना: शूलेन वक्षसि ।
निरन्तरा: शरौघेण कृता: केचिद्रणाजिरे ॥५९॥
श्येनानुकारिण: प्राणान् मुमुचिस्त्रिदशार्दना: ।
केषांचिद् बाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे ॥६०॥
शिरांसि पेतुरन्येषामन्ये मध्ये विदारिता: ।
विच्छिन्नजङ्‌घांस्त्वपरे पेतुरुर्व्यां महासुरा: ॥६१॥
एकबाह्‌वक्षिचरणा: केचिद्देव्या द्विधा कृता: ।
छिन्नेऽपि चान्ये शिरसि पतिता: पुनरुत्थिता: ॥६२॥
कबन्धा युयुधुर्देव्या गृहीतपरमायुधा: ।
ननृतुश्‍चापरे तत्र युद्धे तूर्यलयाश्रिता: ॥६३॥
कबन्धाश्छिन्नशिरस: खड्‌गशक्त्यृष्टिपाणय: ।
तिष्ठ तिष्ठेति भाषन्तो देवीमन्ये महासुरा: ॥६४॥
पातितै रथनागाश्‍वैरसुरैश्‍च वसुन्धरा ।
अगम्या साभवत्तत्र यत्राभूत्स महारण: ॥६५॥
शोणितौघा महानद्य: सद्यस्तत्र प्रसुस्रुवु: ।
मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् ॥६६॥
क्षणेन तन्महासैन्यमसुराणां तथाम्बिका ।
निन्ये क्षयं यथा वह्‌निस्तृणदारुमहाचयम् ॥६७॥
स च सिंहो महानादमुत्सृजन्धुतकेशर: ।
शरीरेभ्योऽमरारीणामसूनिव विचिन्वति ॥६८॥
देव्या गणैश्‍च तैस्तत्र कृतं युद्धं महासुरै: ।
यथैषां तुतुषुर्देवा: पुष्पवृष्टिमुचो दिवि ॥ॐ॥६९॥
इति श्रीमार्कण्डेयपुराणे सार्वर्णिके मन्वन्तरे देवीमाहात्म्ये
महिषासुरसैन्यवधो नाम द्वितीयोऽध्याय: ॥२॥
उवाच १, श्‍लोका: ६८, एवम् ६९, एवमादित: १७३ ॥
श्री चंडिका विजयते

संबंधित माहिती

सर्व पहा

नवीन

चैत्र नवरात्री 2026: कोणत्या दिवशी कोणत्या देवीची पूजा करावी?

चैत्र नवरात्री 2026 घटस्थापना, अष्टमी-नवमी आणि रामनवमी कधी?

बुधवारी करा गणपतीची ही खास पूजा; सर्व अडथळे दूर होतील

गुढी पाडवा २०२६: घर सजावट आयडिया, गुढी उभारणे आणि नवीन वर्षाचे संकल्प

Gudi Padwa 2026 गुढी पाडवा २०२६ तारीख, शुभ मुहूर्त, महत्त्व आणि साजरे करण्याची पद्धत

सर्व पहा

नक्की वाचा

खरे प्रेम आणि आकर्षण यात फरक कसा ओळखाल?

Career in Bachelor of Occupational Therapy BOT : बॅचलर ऑफ ऑक्युपेशनल थेरपी कोर्स मध्ये कॅरिअर करा, पात्रता जाणून घ्या

चेहऱ्यावर ब्लीच लावताना या चुका करणे टाळा, दुष्परिणाम होऊ शकतात

रात्री उशिरा जेवण करणाऱ्यांनी एकदा नक्की वाचा; शरीरावर होतात हे परिणाम

डिटॉक्स ड्रिंक की फक्त ट्रेंड? सकाळी काय प्यावे याबाबत डॉक्टरांचा सल्ला जाणून घ्या

पुढील लेख
Show comments