Webdunia - Bharat's app for daily news and videos

Install App

श्रीरामस्तुतिः

Webdunia
शुक्रवार, 12 एप्रिल 2024 (18:47 IST)
ब्रह्मोवाचः ।
वन्दे देवं विष्णुमशेषस्थितिहेतुं त्वामध्यात्मज्ञानिभिरन्तर्हृदि भाव्यम् ।
हेयाहेयद्वन्द्वविहीनं परमेकं सत्तामात्रं सर्वहृदिस्थं दृशिरूपम् ॥१॥
प्राणापानौ निश्चयबुद्ध्या हृदि रुद्ध्वा छित्वा सर्वं संशयबन्धं विषयौघान् ।
पश्यन्तीशं यं गतमोहा यतयस्तं वन्दे रामं रत्नकिरीटं रविभासम् ॥२॥
मायातीतं माधवमाद्यं जगदादिं मानातीतं मोहविनाशं मुनिवन्द्यम् ।
योगिध्येयं योगविधानं परिपूर्णं वन्दे रामं रञ्जितलोकं रमणीयम् ॥३॥
भावाभावप्रत्ययहीनं भवमुख्यैर्भोगासक्तैरर्चितपादाम्बुजयुग्मम् ।
नित्यं शुद्धं बुद्धमनन्तं प्रणवाख्यं वन्दे रामं वीरमशेषासुरदावम् ॥४॥
त्वं मे नाथो नाथितकार्याखिलकारी मानातीतो माधवरूपोऽखिलधारी ।
भक्त्या गम्यो भावितरूपो भवहारी योगाभ्यासैर्भावितचेतःसहचारी ॥५॥
त्वामाद्यन्तं लोकततीनां परमीशं लोकानां नो लौकिकमानैरधिगम्यम् ।
भक्तिश्रद्धाभावसमेतैर्भजनीयं वन्दे रामं सुन्दरमिन्दीवरनीलम् ॥६॥
को वा ज्ञातुं त्वामतिमानं गतमानं मानासक्तो माधवशक्तो मुनिमान्यम् ।
वृन्दारण्ये वन्दितवृन्दारकवृन्दं वन्दे रामं भवमुखवन्द्यं सुखकन्दम् ॥७॥
नानाशास्त्रैर्वेदकदम्बैः प्रतिपाद्यं नित्यानन्दं निर्विषयज्ञानमनादिम् ।
मत्सेवार्थं मानुषभावं प्रतिपन्नं वन्दे रामं मरकतवर्णं मथुरेशम् ॥८॥
श्रद्धायुक्तो यः पठतीमं स्तवमाद्यं ब्राह्मं ब्रह्मज्ञानविधानं भुवि मर्त्यः ।
रामं श्यामं कामितकामप्रदमीशं ध्यात्वा ध्याता पातकजालैर्विगतः स्यात् ॥९॥
॥इति श्रीमद्ध्यात्मरामायणे युद्धकाण्डे ब्रह्मदेवकृतं रामस्तोत्रं सम्पूर्णम् ॥
 
ःःःःःःःःःःःःःःः
 
अगण्यगुणमाद्यमव्ययमप्रमेय-मखिलजगत्सृष्टिस्थितिसंहारमूलम् ।
परमं परापरमानन्दं परात्मानं वरदमहं प्रणतोऽस्मि सन्ततं रामम् ॥१॥
महितकटाक्षविक्षेपितामरशुचं रहितावधिसुखमिन्दिरामनोहरम् ।
श्यामलं जटामकुटोज्ज्वलं चापशर-कोमलकरांबुजं प्रणतोऽस्म्यहं रामम् ॥२॥
भुवनकमनीयरूपमीडितं शत-रविभासुरमभीष्टप्रदं शरणदम् ।
सुरपादमूलरचितनिलयं सुरसञ्चयसेव्यं प्रणतोऽस्म्यहं रामम् ॥३॥
भवकाननदवदहननामधेयं भवपङ्कजभवमुखदैवतं देवम् ।
दनुजपतिकोटिसहस्रविनाशं मनुजाकारं हरिं प्रणतोऽस्म्यहं रामम् ॥४॥
भवभावनाहरं भगवत्स्वरूपिणं भवभीविरहितं मुनिसेवितं परम् ।
भवसागरतरणांघ्रिपोतकं नित्यं भवनाशायानिशं प्रणतोऽस्म्यहं रामम् ॥५॥
गिरिशगिरिसुताहृदयांबुजावासं  गिरिनायकधरं गिरिपक्षारिसेव्यम् ।
सुरसञ्चयदनुजेन्द्रसेवितपादं सुरपमणिनिभं प्रणतोऽस्म्यहं रामम् ॥६॥
परदारार्थपरिवर्जितमनीषिणां परपूरुषगुणभूतिसन्तुष्टात्मनाम् ।
परलोकैकहितनिरतात्मनां सेव्यं परमानन्दमयं प्रणतोऽस्म्यहं रामम् ॥७॥
स्मितसुन्दरविकसितवक्त्रांभोरुहं स्मृतिगोचरमसितांबुदकलेबरम् ।
सितपङ्कजचारुनयनं रघुवरं क्षितिनन्दिनीवरं प्रणतोऽस्म्यहं रामम् ॥८॥
जलपात्रौघस्थितरविमण्डलसमं सकलचराचरजीवान्तःस्थितम् ।
परिपूर्णात्मानमद्वयमव्ययमेकं परमं परापरं प्रणतोऽस्म्यहं रामम् ॥९॥
विधिमाधवशम्भुरूपभेदेन गुण-त्रितयविराजितं केवलं विराजन्तम् ।
त्रिदशमुनिजनस्तुतमव्यक्तमजं क्षितिजामनोहरं प्रणतोऽस्म्यहं रामम् ॥१०॥
मन्मथशतकोटिसुन्दरकलेवरं जन्मनाशादिहीनं चिन्मयं जगन्मयम् ।
निर्मलं जन्मकर्माधारमप्यनाधारं निर्मममात्मारामं प्रणतोऽस्म्यहं रामम् ॥११॥

ःःःःःःःःःःःःःःः

नमामि भक्तवत्सलं कृपालुशीलकोमलं
भजामि ते पदाम्बुजं अकामिनां स्वधामदम् ।
निकामश्यामसुन्दरं भवाम्बुनाथमन्दरं
प्रफुल्लकञ्जलोचनं मदादिदोषमोचनम् ॥१॥
 
प्रलम्बबाहुविक्रमं प्रभोऽप्रमेयवैभवं
निषङ्गचापसायकं धरं त्रिलोकनायकम् ।
दिनेशवंशमण्डनं महेशचापखण्डनं
मुनीन्द्रसन्तरञ्जनं सुरारिबृन्दभञ्जनम् ॥२॥
 
मनोजवैरिवन्दितं अजादिदेवसेवितं
विशुद्धबोधविग्रहं समस्तदूषणापहम् ।
नमामि इन्दिरापतिं सुखाकरं सतां गतिं
भजे सशक्तिसानुजं शचीपतिप्रियानुजम् ॥३॥
 
त्वदङ्घ्रिमूल ये नरा भजन्ति हीनमत्सराः
पतन्ति नो भवार्णवे वितर्कवीचिसङ्कुले ।
विविक्तवासिनः सदा भजन्ति मुक्तये
मुदा निरस्य इन्द्रियादिकं प्रयान्ति ते गतिं स्वकाम् ॥४॥
 
त्वमेकमद्भुतं प्रभुं निरीहमीश्वरं विभुं
जगत्गुरुं च शाश्वतं तुरीयमेव केवलम् ।
भजामि भाववल्लभं कुयोगिनां सुदुर्लभं
स्वभक्तकल्पपादपं समस्तसेव्यमन्वहम् ॥५॥
 
अनूपरूपभूपतिं नतोऽहमुर्विजापतिं
प्रसीद मे नमामि ते पदाब्जभक्ति देहि मे ।
पठन्ति ये स्तवं इदं नरादरेण ते पदं
व्रजन्ति नात्र संशयस्त्वदीयभावसंयुतम् ॥६॥

ःःःःःःःःःःःःःःः

श्रीरामचन्द्र कृपालु भजु मन हरण भवभय दारुणम् । नवकञ्ज लोचन कञ्ज मुखकर कञ्जपद कञ्जरुणम् ॥१॥
कंदर्प अगणित अमित छबि नव नील नीरज सुन्दरम् । पटपीत पानहुँ तड़ित रुचि सुचि नौमि जनक सुतावरम् ॥२॥
भजु दीन बन्धु दिनेश दानव दैत्यवंशनिकन्दनम् । रघुनन्द आनंदकंद कोशल चन्द दशरथ नन्दनम् ॥३॥
सिरक्रीट कुण्डल तिलक चारु उदार अङ्ग विभूषणम् । आजानुभुज सर चापधर सङ्ग्राम जित खरदूषणम् ॥४॥
इति वदति तुलसीदास शङ्कर शेष मुनि मनरञ्जनम् । मम हृदयकञ्ज निवास कुरु कामादिखलदलमञ्जनम् ॥५॥
मन जाहि राचो मिलहि सोवर सहजसुन्दर सांवरो । करुणानिधान सुजान शील सनेह जानत रावरो ॥६॥
एहि भाँति गौरि अशीस सुनि सिय सहित हिय हर्षित अली । तुलसी भवानिहिं पूजि पुनि पुनि मुदित मन मन्दिर चली ॥७॥
जानि गौरि अनुकूल सिय हिय हर्षनः जात कहि । मञ्जुल मङ्गल मूल वाम अङ्ग परकन लगे ॥
सियावर रामचन्द्र पद गहि रहुँ । उमावर शम्भुनाथ पद गहि रहुँ ।
महाविर बजरँगी पद गहि रहुँ । शरणा गतो हरि ॥
 

संबंधित माहिती

Maa lakshmi : देवी लक्ष्मीला प्रसन्न करण्यासाठी तुळशीला या 5 वस्तू अर्पण करा

Sita Navami 2024: आज सीता नवमीचे व्रत केल्याने मिळेल मातृत्व

श्री सीता चालीसा : सीता नवमी या एका उपायाने प्रसन्न होईल देवी

Brihaspativar upay गुरुवारी काय करावे काय नाही जाणून घ्या

आरती गुरुवारची

ICC T20 Rankings: T20 अष्टपैलू खेळाडूंमध्ये हार्दिक सातव्या क्रमांकावर

नववधू आणि वर यांच्यात भांडण, एकमेकांना धक्काबुक्की करत लाथा मारल्या

मालदा मध्ये वीज कोसळल्याने 11 लोकांचा मृत्यू

बेजवाबदारपणा, डॉक्टरांनी बोटाच्या जागी जिभेची केली सर्जरी

JEE Advanced 2024 परीक्षेचे प्रवेशपत्र जारी, या लिंकवरून डाउनलोड करा

पुढील लेख
Show comments