Marathi Biodata Maker

शिवभारत अध्याय अकरावा

Webdunia
सोमवार, 26 ऑगस्ट 2024 (16:33 IST)
मनीषिण ऊचुः
संप्रेष्य पुण्यविषयं सनयं तनयं शिवम् ।
शाहराजः किमकरोत् कर्णाटविषये वसन् ॥१॥
कथं च महमूदोऽपि तस्मिन् विजितविद्विषि ।
प्रसिद्धायोधनोत्साहे शाहे स्वयमवर्तत ॥२॥
कवीन्द्र उवाच
षाड्गुण्यस्य प्रयोगेण तत्तन्मंत्रबलेन च ।
वशीचकार सकलं शाहः कर्णाटमंडलम् ॥३॥
प्रसूनमिव संप्राप्य प्रणयी प्रणतिस्पृशा ।
शिरसा प्रतिजग्राह जागद्देवोऽ‍स्य शासनम् ॥४॥
दुर्धर्षोऽपि विधेयोऽस्य बभूव मधुराधिपः ।
प्रतिपेदे महाशूरपतिरप्यस्य वश्यताम् ॥५॥
रणदूलहखानेन खलेनोपहृतं बलात् ।
भद्रास्नं स्वमध्यास्त वरिभद्रोऽ‍स्य संश्रयात् ॥६॥
तं तं मंत्रं तत्र तत्र प्रयुंजानस्य धीमतः ।
बहवोऽस्यानुभावेन जहुर्यवनजं भयम् ॥७॥
शाहराजस्य मंत्रेण भवन्नन्यसुदुःसहः ।
सर्वाणि स्वामिकार्याणि चकार रणदूलहः ॥८॥
अथ कालगतिं प्राप्ते सेनान्यां रणदूलहे ।
कार्णाटकान् नरपतीन् स्ववशीकर्तुमंजसा ॥९॥
यं यं सेनापतिं तत्र प्राहिणोत् किल येदिलः ।
स स तत्कांक्षिताकांक्षी शाहमेवान्ववर्तत ॥१०॥
ततो भृशबलं भूपं नियन्तुमनयं स्पृशन् ।
इभरामसुतो दर्पात् मुस्तुफाखानमादिशत् ॥११॥
अथाथानकनिनादेन सागरं प्रतिगर्जयन् ।
जयशब्देन योधानां दिड्मुखानि प्रपूरयन् ॥१२॥
तरलाभिः पताकाभिस्तडितः परितर्जयन् ।
उदग्रैश्शुंडिशुण्डाग्रैर्मुदिरान् प्रतिसारयन् ॥१३॥
पांसुभिस्तुरगोध्दूतैस्सप्तसप्तिं विलोपयन् ।
वाहिनीनिवहैरध्ववाहिनीः परिशोषयन् ॥१४॥
निम्नोन्नतां वसुमतीमतीव समतां नयन् ।
प्रपेदे सप्रतिभटैर्वृतं कर्णाटनीवृतम् ॥१५॥
ततः श्रुत्वा तमायान्तमनेकानीकपान्वितम् ।
प्राप्तसेनापतिपदं येदिलप्रत्ययास्पदम् ॥१६॥
प्रथितं मुस्तुफाखानं महामानं महान्वयम् ।
कपटानोकहभुवां खुरासानभुवां वरम् ॥१७॥
अविश्रब्धोऽपि विश्रंभमात्मनः संप्रदर्शयन् ।
प्रत्युज्जगाम संरभात् ससैन्यश्शाहभूपतिः ॥१८॥
अथाधिकाधिकं स्नेहं मिथो दर्शयतोस्तयोः ।
सख्योरिव महान् जज्ञे पथि संदर्शनोत्सवः ॥१९॥
उभावपि तदा तत्र वस्त्राण्याभरणानि च ।
कुंजरास्तुरगांश्चोच्चैरन्योन्यमुपजह्रतुः ॥२०॥
तदानीं मुस्तुफानीकनिवेशस्यांतिके निजाम् ।
सेनां निवेशयामास भूभृत् भृशबलो बली ॥२१॥
अद्राक्षीन्मुस्तुफाखानश्र्छिद्रान्वेषी यदा यदा ।
सन्नद्धमेव सुतरां शाहराजं तदा तदा ॥२२॥
प्रत्याययितुमात्मानं परिदर्शितसौहृदः ।
स तत्तत्कार्यकरणे शाहमेव पुरो व्यधात् ॥२३॥
प्रत्युत्थानेन तरसा दूरप्रत्युद्गमेन च ।
हस्ताश्लेषेण हर्षेण हस्तसंधारणेन च ॥२४॥
अर्धासनप्रदानेन संमुखीभवनेन च ।
स्मितपूर्वेण वचसा तथा प्रीतिस्पृशा दृशा ॥२५॥
तत्तन्मत्रप्रयोगाणां प्रकाशकरणेन च ।
तेषु तेषु च कार्येषु पुरस्कारेण भूयसा ॥२६॥
अर्हेण परिबर्हेण संस्तवेन स्तवेन च ।
परिहास रसेनोच्वैरध्यात्मकथनेन च ॥२७॥
हिताहंतोभ्द्रावनेन सवृत्तावेदनेन च ।
यवनः सोऽन्वहं तस्मै प्रत्ययं समदर्शयत् ॥२८॥
ततः स पृतनापालः समस्तान् पृतनापतीन् ।
आनाय्य न्यायनिपुणो विविक्ते वाक्यमब्रवीत् ॥२९॥
मुस्तुफाखान उवाच
यस्यान्नं भुज्यते येन मनुजेनानुजीविना ।
तस्य यो स भवेदात्मा नादसीयः कदाचन ॥३०॥
न महत्वं विना विद्यां न काव्यं प्रतिभां विना ।
कदाचिदपि नाभीष्टं दृष्टं स्वामिकृपां विना ॥३१॥
तस्माद् यः स्वामिनोऽर्थाय त्यजत्यात्मानमात्मनः ।
तमेव धन्यमित्याहुर्नीतितंत्रविदो जनाः ॥३२॥
न बांधवो न च सखा न संबंधी न सोदरः ।
न पिताप्यनुरोद्धव्यः स्वामिसेवापरात्मभिः ॥३३॥
यस्मिंस्तुष्टे तुष्टिमेति यस्मिन् रुष्टेऽस्तमेति च ।
तमनन्येन मनसा न विषेवेत कः पुमान् ॥३४॥
सर्वेऽपि वयमेतर्हि नियमे महति स्थिताः ।
संभूय महमूदस्य हिताय प्रयतेमहि ॥३५॥
यदद्य स्वामिना स्वेन महमूदेन मानिना ।
निग्राह्यश्शाह इति वै संदेश्यावेदितं मयि ॥३६॥
बली भृशबलो भूपः स यावन्नावबुध्यते ।
तावत्तद्धि विधातव्यमस्माभिः स्वहितार्थिभिः ॥३७॥
निशीथिनीमतीत्येमां महत्युश्यसि संहसाः ।
सहिताः सैनिकै स्वैः स्वैस्तन्निगृह्वीत पार्थिवम् ॥३८॥
इत्थमावेदितास्तेन मुस्तुफेनार्थसिद्धये ।
पृतनापतयः स्वं स्वं शिबिरं प्रतिपेदिरे ॥३९॥
मंत्रमेतदविद्धास्ते निशि यस्यामन्त्रयन् ।
तस्यामेव महोत्पाताः शाहस्य शिबिरेऽ‍भवन् ॥४०॥
सप्तयो दृक्पयोऽमुंचन्नरणन् करुणं गजाः ।
अतर्कितमभज्यंत क्रूरारवकृतो ध्वजाः ॥४१॥
चक्रिरे नाहता एव पटहाः क्रूरमारवम् ।
रजसा सहसावर्तं वितेने वातमण्डली ॥४२॥
अभ्रोदराद्विनैवाभ्रं करकाः परितोऽपतन् ।
विनैवांभोधरं व्योम्नः प्रादुरासीदिरंमदः ॥४३॥
न प्रदीपनवेलायां प्रदीपाः प्रदिदीपिरे ।
न प्रसेदुर्मनुष्याणां वदनानि मनांसि च ॥४४॥
अकारि पृतनोपांते शिवाभिरशिवो रवः ।
श्वभिरूर्ध्वमुखीभूय चक्रन्दे चातिनिंदितम् ॥४५॥
मुहुरभ्यर्णमभेय्त्य घूको घूत्कारमातनोत् ।
तथा वृकगणः क्रूरमारवं सहसाकरोत् ॥४६॥
चकंपिरे सुमनसां प्रतिमाः प्रतिमंदिरम् ।
अकस्मादर्धरात्रे च गौश्चक्रन्द निकेतगा ॥४७॥
इमान्यासन्निमित्तानि भयशंसीनि भूरिशः ।
तथाप्यवहितो नाभूत् भूपः स नियतेर्वशः ॥४८॥
सज्जीभूय निजे निजेऽद्य शिबिरे तिष्ठन्त्यनीकाधिपाः
सार्धं यैर्व्यदधन्निशार्धसमये मंत्रं चिरं मुस्तुफः ।
आगत्येति निवेदितं प्रणिधिभिः श्रुत्वातिसत्त्वाधिको
दैवायत्ततया न शाहनृपतिश्चक्रे तदात्वोचितम् ॥४९॥
इत्यनुपुराणे कवीन्द्रपरमानन्दप्रकाशितायां संहितायामेकादशोऽध्यायः ।

संबंधित माहिती

सर्व पहा

नक्की वाचा

अधिक मासात मुलीने आईची ओटी का भरावी? जाणून घ्या धार्मिक कारण

Adhik Maas 2026 Upay अधिक मासात ३३ दिवे लावण्यामागील रहस्य: ३३ कोटी देवतांचा आशीर्वाद प्राप्त करा

तणाव व्यवस्थापन करण्यासाठी जीवनशैलीत हे बदल करा

इयत्ता ११वीत विज्ञान, वाणिज्य की कला तुमच्यासाठी कोणती शाखा सर्वोत्तम आहे जाणून घ्या

रेशमी साडी खरेदी करताना फसवणुकीला बळी पडू नका, अशी तपासा

सर्व पहा

नवीन

ओठ नैसर्गिकरित्या गुलाबी आणि मऊ बनवण्यासाठी घरगुती उपायांबद्दल जाणून घ्या

कडक उन्हात उसाचा रस ठरतो अमृत! जाणून घ्या त्याचे जबरदस्त फायदे

मुलांशी मैत्रीपूर्ण नाते कसे निर्माण कराल? जाणून घ्या या सोप्या Parenting Tips

अकबर-बिरबलची कहाणी : महागडा सुगंध

मुले पालकांच्या या सवयी आयुष्यभर विसरत नाहीत; प्रत्येक पालकाला त्या माहित असायला हव्यात

पुढील लेख
Show comments