suvichar

हनुमत्स्तवराजः

Webdunia
शनिवार, 20 एप्रिल 2024 (07:30 IST)
श्रीपराशरः ।
अन्यत्स्तोत्रं प्रवक्ष्यामि श‍ृणु मैत्रेय योगिराट् ।
स्त्वराजमिति ख्यातं त्रिषु लोकेषु दुर्लभम् ॥
 
शम्भुना चोपदिष्टं च पार्वत्यै हितकाम्यया । 
सर्वकामप्रदं नृणां भुक्तिमुक्तिफलप्रदम् ॥
 
अस्य श्रीहनुमत् स्तवराजस्तोत्रमन्त्रस्य वशिष्ठ भगवान् ऋषिः ।
अनुष्टुप्छन्दः । श्रीहनुमान् देवता । ह्रां बीजम् । ह्रीं शक्तिः ।
ह्रूं कीलकम् । मम श्रीहनुमत्प्रसादसिध्यर्थे जपे विनियोगः ॥
 
अथ ऋष्यादिन्यासः ।
श्रीवशिष्ठभगवान् ऋषये नमः शिरसि ।
अनुष्टुप्छन्दसे नमः मुखे ।
श्रीहनुमान् देवतायै नमः हृदि ।
ह्रां बीजाय नमः गुह्ये ।
ह्रीं शक्तये नमः पादयोः ।
ह्रूं कीलकाय नमः नाभौ ।
मम श्रीहनुमत्प्रसादसिध्यर्थे इति विनियोगाय नमः सर्वाङ्गे ॥
 
इति ऋष्यादिन्यासः ॥
 
अथ करन्यासः ।
ॐ अञ्जनासुताय अङ्गुष्ठाभ्यां नमः ।
ॐ रुद्रमूर्तये तर्जनीभ्यां नमः ।
ॐ वायुपुत्राय मध्यमाभ्यां नमः ।
ॐ अग्निगर्भाय अनामिकाभ्यां नमः ।
ॐ रामदूताय कनिष्ठिकाभ्यां नमः ।
ॐ पञ्चमुखहनुमते करतलकरपृष्ठाभ्यां नमः ।
इति करन्यासः ।
अथ षडङ्गन्यासः ।
ॐ अञ्जनासुताय हृदयाय नमः ।
ॐ रुद्रमूर्तये शिरसे स्वाहा ।
ॐ वायुपुत्राय शिखायै वषट् ।
ॐ अग्निगर्भाय कवचाय हुम् ।
ॐ रामदूताय नेत्रत्रयाय वौषट् ।
ॐ पञ्चमुखहनुमते अस्त्राय फट् ।
इति षडङ्गन्यासः ॥
 
अथ ध्यानम् ।
उद्यन्मार्ताण्डकोटिप्रकटरुचिकरं चारु वीरासनस्थं
मौञ्जीयज्ञोपवीताभरणमुरुशिखाशोभितं कुण्डलाङ्गम् ।
भक्तानामिष्टदं तं प्रणुत मुनिजनं वेदनादप्रमोदं
ध्यायेद्देवं विधेयं प्लवगकुलपतिं गोष्पदीभूतवार्धिम् ॥
 
इति ध्यानम् ॥
 
श्रीहनुमान्महावीरो वीरभद्रवरोत्तमः ।
वीरश्शक्तिमतां श्रेष्ठो वीरेश्वरवरप्रदः ॥ १॥
 
यशस्करः प्रतापाढयो सर्वमङ्गल सिद्धिदः ।
सानन्दमूर्तिर्गहनो गम्भीरस्सुरपूजितः ॥ २॥
 
दिव्यकुण्डलभूषाय दिव्यालङ्कारशोभिने ।
पीताम्बरधरप्राज्ञ नमस्ते ब्रह्मचारिणे ॥ ३॥
 
कौपीनवसनाक्रान्त दिव्ययज्ञोपवीतिने ।
कुमाराय प्रसन्नाय नमस्ते मौञ्जीधारिणे ॥ ४॥
 
सुभद्रश्शुभदाता च सुभगो रामसेवकः ।
यशःप्रदो महातेजा बलाढ्यो वायुनन्दनः ॥ ५॥
 
जितेन्द्रियो महाबाहुर्वज्रदेहो नखायुधः ।
सुराध्यक्षो महाधुर्यः पावनः पवनात्मजः ॥ ६॥
 
बन्धमोक्षकरश्शीघ्रपर्वतोत्पाटनस्तथा ।
दारिद्र्यभञ्जनश्श्रेष्ठस्सुखभोगप्रदायकः ॥ ७॥
 
वायुजातो महातेजाः सूर्यकोटिसमप्रभः ।
सुप्रभा दीप्तिमद्भूत दिव्यतेजस्विने नमः ॥ ८॥
 
अभयङ्करमुद्राय अपमृत्युविनाशिने ।
सङ्ग्रामे जयदात्रे च अविघ्नाय नमोनमः ॥ ९॥
 
तत्त्वज्ञानामृतानन्दब्रह्मज्ञो ज्ञानपारगः ।
मेघनादप्रमोहाय हनुमद्ब्रह्मणे नमः ॥ १०॥
 
रुच्याढ्यदीप्तबालार्कदिव्यरूपशुशोभितः ।
प्रसन्नवदन श्रेष्ठ हनुमन् ते नमो नमः ॥ ११॥
 
दुष्टग्रहविनाशश्च दैत्यदानवभञ्जनः ।
शाकिन्यादिभूतहन्त्रे नमोऽस्तु श्रीहनूमते ॥ १२॥ शाकिन्यादिषु भूतघ्नो
महाधैर्य महाशौर्य महावीर्य महाबल ।
अमेयविक्रमायैव हनुमन् वै नमोऽस्तुते ॥ १३॥
 
दशग्रीवकृतान्ताय रक्षःकुलविनाशिने ।
ब्रह्मचर्यव्रतस्थाय महावीराय ते नमः ॥ १४॥
 
भैरवाय महोग्राय भीमविक्रमणाय च ।
सर्वज्वरविनाशाय कालरूपाय ते नमः ॥ १५॥
 
सुभद्रद सुवर्णाङ्ग सुमङ्गल शुभङ्कर ।
महाविक्रम सत्वाढ्य दिङमण्डलसुशोभित ॥ १६॥
 
पवित्राय कपीन्द्राय नमस्ते पापहारिणे ।
सुविद्यरामदूताय कपिवीराय ते नमः ॥ १७॥
 
तेजस्वी शत्रुहावीरः वायुजस्सम्प्रभावनः ।
सुन्दरो बलवान् शान्तः आञ्जनेय नमोऽस्तु ते ॥ १८॥
 
रामानन्द जयकर जानकीश्वासद प्रभो ।
विष्णुभक्त महाप्राज्ञ पिङ्गाक्ष विजयप्रद ॥ १९॥
 
राज्यप्रदस्सुमाङ्गल्यः सुभगो बुद्धिवर्धनः ।
सर्वसम्पत्तिदात्रे च दिव्यतेजस्विने नमः ॥ २०॥
 
कल्याणकीर्तये जयमङ्गलाय जगत्तृतीयं धवलीकृताय ।
तेजस्विने दीप्तदिवाकराय नमोऽस्तु दीप्ताय हरीश्वराय ॥ २१॥
 
महाप्रतापाय विवर्धनाय मनोजवायाद्भूतवर्धनाय ।
प्रौढप्रतापारुणलोचनाय नमोऽञ्जनानन्द कपीश्वराय ॥ २२॥
 
कालाग्निदैत्यसंहर्ता सर्वशत्रुविनाशनः ।
अचलोद्धारकश्चैव सर्वमङ्गलकीर्तिदः ॥ २३॥
 
बलोत्कटो महाभीमः भैरवोऽमितविक्रमः ।
तेजोनिधिः कपिश्रेष्ठः सर्वारिष्टार्तिदुःखहा ॥ २४॥
 
उदधिक्रमणश्चैव लङ्कापुरविदाहकः  ।
सुभुजो द्विभूजो रुद्रः पूर्णप्रज्ञोऽनिलात्मजः ॥ २५॥
 
राजवश्यकरश्चैव जनवश्यं तथैव च ।
सर्ववश्यं सभावश्यं नमस्ते मारुतात्मज ॥ २६॥
 
महापराक्रमाक्रान्तः यक्षराक्षसमर्दनः ।
सौमित्रिप्राणदाता च सीताशोकविनाशनः ॥ २७॥
 
रक्षोघ्नोऽञ्जनासूनुश्च केसरीप्रियनन्दन ।
सर्वार्थदायको वीरः मल्लवैरिविनाशनः ॥ २८॥
 
सुमुखाय सुरेशाय शुभदाय शुभात्मने ।
प्रभावाय सुभावाय नमस्तेऽमिततेजसे ॥ २९॥
 
वायुजो वायुपुत्रश्व कपीन्द्रः पवनात्मजः ।
वीरश्रेष्ठ महावीर शिवभद्र नमोऽस्तुते ॥ २९॥
 
भक्तप्रियाय वीराय वीरभद्राय ते नमः ।
स्वभक्तजनपालाय भक्तोद्यानविहारिणे ॥ ३०॥
 
दिव्यमालासुभूषाय दिव्यगन्धानुलेपिने ।
श्रीप्रसन्नप्रसन्नाय सर्वसिद्धिप्रदोभव ॥ ३१॥
 
वातात्मजमिदं स्तोत्रं पवित्रं यः पठेन्नरः । वातसूनोरिदं
अचलां श्रियमाप्नोति पुत्रपौत्रादिवृद्धिदम् ॥ ३२॥
 
धनधान्यसमृद्धिं च आरोग्यं पुष्टिवर्धनम् ।
बन्धमोक्षकरं शीघ्रं लभते वाञ्छितं फलम् ॥ ३३॥
 
राज्यदं राजसन्मानं सङ्ग्रामे जयवर्धनम् ।
सुप्रसन्नो हनुमान्मे यशःश्री जयकारकः ॥ ३४॥
 
॥ इति श्रीपराशरसंहितायै पराशरमैत्रेयसंवादे
हनुमत्स्तवराजः सम्पूर्णः ॥

संबंधित माहिती

सर्व पहा

नवीन

चैत्र नवरात्री 2026: कोणत्या दिवशी कोणत्या देवीची पूजा करावी?

गुढीला कोणत्या रंगाची साडी नेसवावी?

गुढीपाडव्याला कडुलिंब-गूळ का खातात?

Chaitra Navratri 2026 चैत्र नवरात्र, मुहूर्त, पूजा विधी आणि महत्तव जाणून घ्या

Gudi Padwa 2026 Wishes in Marathi गुढी पाडवा शुभेच्छा संदेश

सर्व पहा

नक्की वाचा

खरे प्रेम आणि आकर्षण यात फरक कसा ओळखाल?

Career in Bachelor of Occupational Therapy BOT : बॅचलर ऑफ ऑक्युपेशनल थेरपी कोर्स मध्ये कॅरिअर करा, पात्रता जाणून घ्या

चेहऱ्यावर ब्लीच लावताना या चुका करणे टाळा, दुष्परिणाम होऊ शकतात

रात्री उशिरा जेवण करणाऱ्यांनी एकदा नक्की वाचा; शरीरावर होतात हे परिणाम

डिटॉक्स ड्रिंक की फक्त ट्रेंड? सकाळी काय प्यावे याबाबत डॉक्टरांचा सल्ला जाणून घ्या

पुढील लेख
Show comments