Marathi Biodata Maker

शिवभारत अध्याय तिसरा

Webdunia
सोमवार, 26 ऑगस्ट 2024 (14:55 IST)
कवीन्द्र उवाच ॥
अथ विठ्ठलराजे स्वे पितृव्येपि दिवं गते ।
नृपनीतिविधिज्ञेन मातुर्वचनवर्तिना ॥१॥
महावीरेण धीरेण शाहराजेन धीमता ।
राज्यभारस्स हि महान् दध्रे बत निजे भुजे ॥२॥
संभः खेलश्च मल्लश्च मंबो नागश्च पर्शुकः ।
त्र्यंबकश्चापि वक्कश्च भ्रातरस्सोदरा अमी ॥३॥
पुत्रा विठ्ठलराजस्य सुत्रामसमविक्रमाह ।
मालभूपात्मजौ शाहशरीफौ च प्रभाविणौ ॥४॥
एते क्षोणिजये सक्ताः शक्तास्समरकर्मणि ।
निजामस्य प्रियकराः कराकृष्टशरासनाः ॥५॥
पर्वतप्राशुवपुषः सहस्त्रांशुसमत्विषः ।
भूयसा भुजसारेण भूरिणाभिजनेन च ॥६॥
सैन्येन च गुणैश्चान्यैरनन्यसमतेजसः ।
परं न गणयामासुरंबरस्य मते स्थिताः ॥७॥
एकदान्तःपुरादाप्तभृत्यामात्यनिषेवितम् ।
निजामशाहमास्थानीमेत्य सिंहासने स्थितम् ॥८॥
दृष्ट्वा यादवराजाद्याः प्रणिपत्य यथाक्रमम् ।
प्रचलन्ति स्म तरसा सर्वे स्वं स्वं निवेशनम् ॥९॥
ततः प्रचलतां तेषामन्योन्यस्पर्धिचेतसाम् ।
संमर्दः सुमहानासीदास्यानीतोरणाद्वहिः ॥१०॥
तत्र वेत्रधरैर्दारादुत्सारितजनाः पुरः ।
परिपीनोन्नतस्कन्धाः सन्नद्धाःपृथुवक्षसः ॥११॥
किरीटिनः कुण्डलिनः कवचच्छनविग्रहाः ।
मुक्तामणिमयोदारहाराः केयूरधारिणः ॥१२॥
सुलक्षणाः क्षोणिभुजः पद्मपत्रायतेक्षणाः ।
स्वैः स्वैः सैन्यैः परिवृताः पुरः प्रोच्छ्रायितध्वजैः ॥१३॥
हयानन्ये गजानन्ये याप्ययानानि चापरे ।
समारुह्याप्रतिहतप्रभावाः संप्रतस्थिरे ॥१४॥
ततः खण्डार्गलाख्यस्य नृपस्याग्रेसरः करी ।
मर्दयन्नन्यसैन्यानि प्रचचाल बलाद्बली ॥१५॥
पदे पदेंकुशाघातैर्निषिद्धोपि निषादिना ।
स सिन्धुरः सैनिकानां चकार कदनं महत् ॥१६॥
तं मृन्दन्तमनीकानि गर्जन्तमकुतोभयम् ।
प्रलयांभोधरनिभं रोध्दुं शेकुर्न केचन ॥१७॥
अथ यादवराजस्य दत्तवर्मादिभिस्सुतैः ।
न सेहे गर्जतस्तस्य गर्जः प्रतिगजैरिव ॥१८॥
ततो दत्तसमादिष्टाः सुभटास्तं मदोत्कटम् ।
निजघ्नुश्शरनिस्रिंशकुन्ततोमरशक्तिभिः ॥१९॥
स भिन्नवर्मा बहुभिर्घोरकर्मा मदद्विपः ।
विकर्षन् पुष्करेणोच्चैः सहसा हयसादिनः ॥२०॥
करेण कांश्चिदादाय क्षिपन् कांश्चिदपातयत् ।
कांश्चिन्निपात्य चरणैस्तत्तलैर्न्निष्पिपेष च ॥२१॥
दत्तवर्माऽथ तं दृष्ट्वा स्वसैन्यस्य पराभवम् ।
तं दन्तिनमभीयाय हर्य्क्ष इव लक्षयन् ॥२२॥
तदा तेनातिरभसात्स बतायुधसादितः ।
विधुन्वानः स्वमूर्धानं रराण रणमूर्धनि ॥२३॥
ततो विठ्ठलराजस्य संभखेलावुभौ सुतौ ।
खण्डार्गळस्य साहाय्यं विधातुं समुपस्थितौ ॥२४॥
तौ तं लोहितलिप्तागं धातुमन्तमिवाचलम् ।
पर्यपालयतां तत्र दत्तराजवशं गतम् ॥२५॥
दत्तराजस्तु तं हित्वा विहस्तं मदहस्तिनम् ।
अनुजं प्रतिजग्राह संभराजं महाभुजम् ॥२६॥
तयोः गुपितयोस्तत्र द्वन्द्वयुद्धे समुद्यते ।
आवर्तस्सुमहानासीत् योधानामभिधावताम् ॥२७॥
हस्ताहस्ति ततो युद्धमुभयोः सेनयोरभूत् ।
दत्तवर्माणमभ्येते संभे जंभारितेजसि ॥२८॥
यादवानां तदद्धापि सांबंधिकमलक्षयन् ।
ररक्ष पक्षं संभस्य भ्राता शाहमहीपतिः ॥२९॥
ततश्चर्मधरस्तत्र दत्तराजः प्रतापवान् ।
व्यधत्त मण्डलाग्रेण परिवेषमिवात्मनः ॥३०॥
तस्मिन्नाकस्मिके युद्धे शूराणां सन्निपेतुषाम् ।
क्ष्वेडितास्फोटितभरैर्बभूर्वुर्बधिरा दिशः ॥३१॥
तदा स्वमन्डलाग्रेण मन्डलानि वितन्वता ।
ननृते तेन वीरेण रणरंगे महीयसि ॥३२॥
लुठत्सु वरवीराणां सकिरीटेषु मूर्धसु ।
असिभिः खण्ड्यमानेषु सकोदण्डेषु बाहुषु ॥३३॥
कृपाणबाणपरशुप्रासभिन्नेषु वर्मसु ।
शितचक्रनिकृत्तेषु सशरेषु करेषु च ॥३४॥
तुरंगमत्तमातंगपत्रिसंघातजन्मभिः ।
स्फुटं रुधिरधाराभिः शान्तेषु रणरेणुषु ॥३५॥
ध्वजांशुकपरीतासु समराजिरभूमिषु ।
शराचितशरीरेषु नरेषु निपतत्सु च ॥३६॥
तेन यादववीरेण धीरेणामित्रघातिना ।
संभराजं समासाद्य बिभिदे मित्रमण्डलम् ॥३७॥
तमप्रतिमकर्माणं दत्तवर्माणमाहवे ।
शृण्वानस्संभनिहतं यादवेन्द्रस्स्वमात्मजम् ॥३८॥
पुरोगच्छन्नर्धपथादतिरोषारुषेक्षणः ।
परावृत्तो महाराजः संभराजजिघांसया ॥३९॥
तस्मिन् रोषसमाविष्टे यादवानामधीश्वरे ।
सपर्वतवनद्वीपा वसुधा समकंपत ॥४०॥
असुतोप्याधिको येन हतो जाल्मेन मे सुतः ।
तमहं निहनिश्यामि करिष्यामि समीहितम् ॥४१॥
इत्यमर्षवशीभूतं श्वशुरं सुरविक्रमम् ।
स्वपक्षरक्षणाकांक्षी शाहराजोऽभ्ययुध्यत ॥४२॥
युध्यमानममुं वीक्ष्य जामातरमरिन्दमः ।
जघान साहसी शाहं भुजगेन्द्रसमे भुजे ॥४३॥
शाहस्तेनासिपातेन श्रयन् मूर्च्छां महीयसीम् ।
कथंचिदपि धैर्येण धारयामास जीवितम् ॥४४॥
ततः खेलं पराभूय न्यक्कृत्यान्यांश्च पार्थिवान् ।
निर्जिंत्य च निजामस्य श्यामाननमयीं चमूम् ॥४५॥
गाढमुष्टीर्गाढमुष्टिं समुद्यम्य स यादवः ।
संरब्धोभ्यपतत्तूर्णं संभं समरदुर्जयम् ॥४६॥
ततस्संभः प्रसन्नात्मा परं परिहसन्निव ।
अरं व्यापारयामास करं कौक्षेयके निजे ॥४७॥
तयोस्तदाभवद्युद्धं मिथो विस्पर्धमानयोः ।
साध्वसावहमन्येषां मत्तयोर्द्विपयोरिव ॥४८॥
ततोऽसिपातान् बहुशः सोढ्वा संभस्य यादवः ।
तं जगत्यां जितारातिरसिनैव न्यपातयत् ॥४९॥
तं सुतस्य निहंतारं निपात्य वसुधातले ।
तेन यादववीरेण वैरनिर्यातनं कृतम् ॥५०॥
तदा यादवराजेन महाराजेन संयति ।
सुते विठ्ठलराजस्य बत ज्येष्ठे निपातिते ॥५१॥
तत्र प्रतिक्रियां कांचिदपि कर्तुमशक्नुवत् ।
निजामस्याखिलं सैन्यमवसन्नमजायत ॥५२॥
स्वामिनाथ निजामेन सांत्वयित्वा निवारिते ।
ते सेने प्रसभोद्वृत्ते निवृत्ते कलहान्मिथः ॥५३॥
रणांगणादुपादाय वर्ष्मणी संभदत्तयोः ।
शोचमाने हतोत्साहं स्वं स्वं शिबिरमीयतुः ॥५४॥
विषष्णमनसस्सर्वे खेलकर्णादयोऽनुजाः ।
ततस्तमन्वशोचंत ज्येष्ठं भ्रातरमात्मनः ॥५५॥
सुतस्य कारयामास यादवः कार्यमुत्तरम् ।
भ्रातुर्ज्येंष्ठस्य विधिवत् खेलकर्णस्तदुत्तरम् ॥५६॥
सांबंधिकस्य महतः सुतरां विरुद्धं ।
स्पर्धिष्णुभिर्भृशबलै यदभूद्धि युद्धम् ।
तदादवेन सुधिया हृदि सावलेपे ।
जानीमहे किमपि चिन्तयतानुतेपे ॥५७॥
इत्युनुपुराणे सूर्यवंशे निधिवासकरपरमानन्दकवीन्द्रप्रकाशितायामाकस्मिकास्कन्दनो नाम तृतीयोध्यायः ॥३॥

संबंधित माहिती

सर्व पहा

नक्की वाचा

शास्त्रोक्त पद्धत: गणपतीला २१ तर शंकराला ११ पदरी वात का? ३६५ पदरी 'देहवात' आणि 'ब्रम्हांडवाता'चे गूढ काय?

मृत्यूपूर्वी दिसणारे मुख्य ५ संकेत, गरुड पुराणात दडलेले रहस्य जाणून घ्या

अधिक मासात जोडवी घेण्याची परंपरा; काय आहे या मागचं रहस्य?

अधिक मासात चुकूनही करू नका ही ५ कामं

सतत ऑनलाइन राहिल्याने तुमची नाती बिघडत तर नाही आहे ना? खूप उशीर होण्यापूर्वी सांभाळा

सर्व पहा

नवीन

बकरीद (ईद-उल-अजहा) विशेष लोकप्रिय पाककृती

World Milk Day Special: दुधापासून बनवा घरच्या घरी ५ झटपट आणि टेस्टी स्वीट डिशेस!

Veer Savarkar Jayanti 2026 Speech in Marathi स्वातंत्र्यवीर सावरकर जयंती भाषण मराठी

दररोज सकाळी रिकाम्या पोटी सफरचंद खाल्ल्यास शरीरात होतात हे आश्चर्यकारक बदल

इलेक्ट्रिकल अँड इलेक्ट्रॉनिक्स इंजिनिअरिंगमध्ये करिअरची मोठी संधी; बीटेकनंतर मिळतील आकर्षक नोकऱ्या

पुढील लेख
Show comments